Move to Jagran APP

Vaishakh Amavasya 2024: वैशाख अमावस्या पर जरूर करें इस स्तुति का पाठ, संकट से मिलेगी मुक्ति

सनातन धर्म में अमावस्या तिथि का बेहद खास महत्व है। इस तिथि पर भगवान विष्णु और पितरों की पूजा करने के विधान है। साथ ही पितरों का तर्पण और श्राद्ध भी किया जाता है। मान्यता है कि इन कार्यों को करने से साधक को भगवान विष्णु और पितरों का आशीर्वाद प्राप्त होता है। इस दिन भगवान विष्णु को प्रसन्न करने के लिए श्रीहरि स्तुति का पाठ अवश्य करना चाहिए।

By Kaushik Sharma Edited By: Kaushik Sharma Published: Tue, 07 May 2024 02:44 PM (IST)Updated: Tue, 07 May 2024 02:44 PM (IST)
Vaishakh Amavasya 2024: वैशाख अमावस्या पर जरूर करें इस स्तुति का पाठ, संकट से मिलेगी मुक्ति

धर्म डेक्स, नई दिल्ली। Shri hari stuti lyrics: हर महीने कृष्ण पक्ष की चतुर्दशी तिथि के अगले दिन अमावस्या का पर्व मनाया जाता है। वैशाख माह में अमावस्या 10 मई को है। इस दिन भगवान विष्णु और पितरों की पूजा-अर्चना करने का विधान है। साथ ही जप-तप और दान-पुण्य भी किया जाता है। मान्यता है कि इन कार्यों को करने से साधक को भगवान विष्णु और पितरों का आशीर्वाद प्राप्त होता है। इसके अलावा, सभी कार्यों में सफलता प्राप्त होती है। अगर आप भी जीवन में खुशियों का आगमन चाहते हैं, तो वैशाख अमावस्या पर पूजा के दौरान श्रीहरि स्तुति का पाठ करें। इससे साधक को जीवन में शुभ फल की प्राप्ति होगी और संकटों से छुटकारा मिलेगा। आइए पढ़ते हैं श्रीहरि स्तुति।

loksabha election banner

यह भी पढ़ें: Vaishakh Amavasya 2024: वैशाख अमावस्या पर पूजा के समय करें इन मंत्रों का जप, दूर हो जाएंगे सभी दुख और कष्ट

श्रीहरि स्तुति

स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।

यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥

यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।

येन व्याप्तं येन विबुद्धं सुखदुःखै-स्तं संसारध्वान्तविनाशं हरिमीडे ॥

सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा ।

यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य – संसारध्वान्तविनाशं हरिमीडे ॥

यस्मादन्यन्नास्त्यपि नैवं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।

ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ – स्तं संसारध्वान्तविनाशं हरिमीडे ॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।

भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥

प्राणानायम्योमिति चित्तं हृदि रुध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।

क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।

ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥

मात्रातीतं स्वात्मविकासात्मविबोधं ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।

भावग्राह्यानन्दमनन्यं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।

ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥

यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य।

तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥

हित्वा हित्वा दृश्ययमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।

त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-स्तं संसारध्वान्तविनाशं हरिमीडे ॥

सर्वत्रास्ते सर्वशरीरी न च सर्वः सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।

सर्वत्रान्तर्यामितयेत्थं यमयन्य – स्तं संसारध्वान्तविनाशं हरिमीडे ॥

सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेतद् दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।

सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं तं संसारध्वान्तविनाशं हरिमीडे ॥

सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।

साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसारध्वान्तविनाशं हरिमीडे ॥

पश्यन् शृण्वन्नत्र विजानन् रसयन् सञ् – जिघ्रद्बिभ्रद्देहमिमं जीवतयेत्थम् ।

इत्यात्मानं यं विदुरीशं विषयज्ञं तं संसारध्वान्तविनाशं हरिमीडे ॥

जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।

इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसारध्वान्तविनाशं हरिमीडे ॥

पश्यन् शुद्धोऽप्यक्षर एको गुणभेदा – न्नानाकारान् स्फाटिकवद्भाति विचित्रः ।

भिन्नश्छिन्नश्चायमजः कर्मफलैर्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥

ब्रह्माविष्णू रुद्रहुताशौ रविचन्द्रा – विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।

एकं सन्तं यं बहुधाहुर्मतिभेदा – त्तं संसारध्वान्तविनाशं हरिमीडे ॥

सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं शान्तं गूढं निष्कलमानन्दमनन्यम् ।

इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥

कोशानेतान् पञ्च रसादीनतिहाय ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।

पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥

येनाविष्टो यस्य च शक्त्या यदधीनः क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।

कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ – स्तं संसारध्वान्तविनाशं हरिमीडे ।।

स्पृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।

सच्च त्यच्चाभूत्परमात्मा स य एक – स्तं संसारध्वान्तविनाशं हरिमीडे ॥

वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः शास्त्रैश्चान्यैः सात्वततन्त्रैश्च यमीशम् ।

दृष्ट्वाथान्तश्चेतसि बुध्वा विविशुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै – र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।

दुर्विज्ञेयो जन्मशतैश्चापि विना तै – स्तं संसारध्वान्तविनाशं हरिमीडे ॥

यस्यातर्क्यं स्वात्मविभूतेः परमार्थं सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।

तज्जातित्वादब्धितरङ्गाभमभिन्नं तं संसारध्वान्तविनाशं हरिमीडे ॥

दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं भक्त्या गुर्व्यालभ्य हृदिस्थं दृशिमात्रम् ।

ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो भुङ्क्तेऽजस्रं भोग्यपदार्थान् प्रकृतिस्थः ।

क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते तं संसारध्वान्तविनाशं हरिमीडे ॥

युक्त्यालोड्य व्यासवचांस्यत्रहि लभ्यः क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।

योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति ।

यस्मिंल्लीना नेह पुनर्जन्म लभन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥

द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः कृत्वा शक्रोपासनमासाद्य विभूत्या ।

योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

योऽयं देहे चेष्टयितान्तःकरणस्थः सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।

इत्यात्मैक्योपासनया यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥

विज्ञानांशो यस्य सतः शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।

नैवान्तःस्थं बुध्यति यं बोधयितारं तं संसारध्वान्तविनाशं हरिमीडे ॥

कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञात्वा(ता) श्रोता मन्तयिता चैष हि देवः ।

इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानन्दः प्राणिति चापानिति चेति ।

इत्यस्तित्वं वक्त्युपपत्या श्रुतिरेषा तं संसारध्वान्तविनाशं हरिमीडे ॥

प्राणो वाहं वाक्छ्रवणादीनि मनो वा बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।

इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहंकारधियौ च ।

योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

सत्तामात्रं केवलविज्ञानमजं स – त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।

साम्नामन्ते प्राह पिता यं विभुमाद्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

मूर्तामूर्ते पूर्वमपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय ।

चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

ओतं प्रोतं यत्र च सर्वं गगनान्तं योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।

ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य – स्तं संसारध्वान्तविनाशं हरिमीडे ॥

तावत्सर्वं सत्यमिवाभाति यदेत – द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्टः ।

दृष्टे यस्मिन् सर्वमसत्यं भवतीदं तं संसारध्वान्तविनाशं हरिमीडे ॥

रागामुक्तं लोहयुतं हेम यथाग्नौ योगाष्टांगैरुज्ज्वलितज्ञानमयाग्नौ ।

दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥

यं विज्ञानज्योतिषमाद्यं सुविभान्तं हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।

भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं तं संसारध्वान्तविनाशं हरिमीडे ॥

पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम् ।

इत्यात्मानं स्वात्मनि संहृत्य सदैक – स्तं संसारध्वान्तविनाशं हरिमीडे ॥

यह भी पढ़ें: Vaishakh Amavasya 2024: वैशाख अमावस्या की पूजा इस कथा के बिना है अधूरी, पितरों को मिलेगी शांति

डिसक्लेमर- 'इस लेख में निहित किसी भी जानकारी/सामग्री/गणना की सटीकता या विश्वसनीयता की गारंटी नहीं है। विभिन्न माध्यमों/ज्योतिषियों/पंचांग/प्रवचनों/मान्यताओं/धर्मग्रंथों से संग्रहित कर ये जानकारियां आप तक पहुंचाई गई हैं। हमारा उद्देश्य महज सूचना पहुंचाना है, इसके उपयोगकर्ता इसे महज सूचना समझकर ही लें। इसके अतिरिक्त, इसके किसी भी उपयोग की जिम्मेदारी स्वयं उपयोगकर्ता की ही रहेगी।'


Jagran.com अब whatsapp चैनल पर भी उपलब्ध है। आज ही फॉलो करें और पाएं महत्वपूर्ण खबरेंWhatsApp चैनल से जुड़ें
This website uses cookies or similar technologies to enhance your browsing experience and provide personalized recommendations. By continuing to use our website, you agree to our Privacy Policy and Cookie Policy.